|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.3. अध्यायः 003
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ब्राह्मण्यस्य क्षत्रियादिदौर्लभ्ये दृष्टान्ततया मतङ्गोपाख्यानकथनारम्भः॥ 1 ॥ तत्रेन्द्रमतङ्गसंवादानुवादारम्भः॥ 2 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान्।
गुणैश्च विविधैः सर्वैर्वयसा च समन्वितः॥ 13-3-1(81367)
भवान्विशिष्टो बुद्ध्या च प्रज्ञया तपसा तथा।
`सर्वेषामेव जातानां सतामेतन्न संशयः॥' 13-3-2(81368)
तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतांवर।
नान्यस्त्वदन्यो लोकेषु प्रष्टव्योस्ति नराधिप॥ 13-3-3(81369)
क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम।
ब्राह्मण्यं प्राप्नुयाद्येन तन्मे व्याख्यातुमर्हसि॥ 13-3-4(81370)
`ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप।'
तपसा वा सुमहता कर्मणा वा श्रुतेन वा।
ब्राह्मण्यमथ चेदिच्छेत्कथं शक्यं पितामह॥ 13-3-5(81371)
भीष्म उवाच। 13-3-6x(6751)
ब्राह्मण्यमतिदुष्प्राप्यं वर्णैः क्षत्रादिभिस्त्रिभिः।
परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर॥ 13-3-6(81372)
बह्विस्तु संसरन्योनीर्जायमानः पुनःपनः।
पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते॥ 13-3-7(81373)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर॥ 13-3-8(81374)
द्विजातेः कस्यचित्तात तुल्यवर्णः सुतस्त्वभूत्।
मतङ्गो नाम नाम्नाऽऽसीत्सर्वैः समुदितो गुणैः॥ 13-3-9(81375)
स यज्ञकारः कौन्तेय पित्रोत्सृष्टः परंतप।
प्रायाद्गर्दभयुक्तेन रथेनाप्याशुगामिना॥ 13-3-10(81376)
स बालं गर्दभं राजन्वहन्तं मातुरन्तिके।
निरविध्यत्प्रतोदेन नासिकायां पुनःपुनः॥ 13-3-11(81377)
तं दृश्य नसि निर्भिन्नं गर्दभी पुत्रगृद्धिनी।
उवाच मा शुचः पुत्र चण्डालस्त्वाभिविध्यति॥ 13-3-12(81378)
ब्राह्मणो दारुणो नास्ति मैत्रो ब्राह्मण उच्यते।
आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति॥ 13-3-13(81379)
अयं तु पापप्रकृतिर्बाले न कुरुते दयाम्।
स्वयोनिं मानयत्येष भावो भावं नियच्छति॥ 13-3-14(81380)
एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः।
अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत॥ 13-3-15(81381)
ब्रूहि रासभि कल्याणि माता मे येन दूषिता।
केन मां वेत्सि चण्डालं ब्राह्मण्यं केन मेऽनशत्।
तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः॥ 13-3-16(81382)
गर्दभ्युवाच। 13-3-17x(6752)
ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह।
जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत्॥ 13-3-17(81383)
एवमुक्तो मतङ्गस्तु प्रतिप्रायाद्गृहं पुनः।
तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत्॥ 13-3-18(81384)
यस्त्वं यज्ञार्थसंसिद्धौ नियुक्तो गुरुकर्मणि।
कस्मात्प्रतिनिवृत्तोसि कच्चिन्न कुशलं तव॥ 13-3-19(81385)
मतङ्ग उवाच। 13-3-20x(6753)
अन्त्ययोनिरयोनिर्वा कथं स कुशली भवेत्।
कुशलं तु कुतस्तस्य यस्येयं जननी पितः॥ 13-3-20(81386)
ब्राह्मण्यां वृषलाञ्जातं पितर्वेदयते हि माम्।
अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत्॥ 13-3-21(81387)
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः।
ततो गत्वा महारण्यमतपत्सुमहत्तपः॥ 13-3-22(81388)
ततः स तापयामास विबुधांस्तपसाऽन्वितः।
मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि॥ 13-3-23(81389)
तं तथा तपसा युक्तमुवाच हरिवाहनः।
मतङ्ग तप्स्यसे किं त्वं भोगानुत्सृज्य मानुषान्॥ 13-3-24(81390)
वरं ददामि ते हन्त वृणीष्व त्वं यदिच्छसि।
यच्चाप्यवाप्यं हृदि ते सर्वं तद्ब्रूहि मा चिरम्॥ 13-3-25(81391)
मतङ्ग उवाच। 13-3-26x(6754)
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः।
गच्छेयं तदवाप्येह वर एष वृतो मया॥ 13-3-26(81392)
भीष्म उवाच। 13-3-27x(6755)
एतच्छ्रुत्वा तु वचनं तमुवाच पुरदरः।
मतङ्ग दुर्लभमिदं विप्रत्वं प्रार्थ्यते त्वया॥ 13-3-27(81393)
ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः।
विनशिष्यसि दुर्बुद्धे तदुपारम मा चिरम्॥ 13-3-28(81394)
श्रेष्ठं यत्सर्वभूतेषु तपो यदतिवर्तते।
तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि॥ 13-3-29(81395)
देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम्।
चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन॥ ॥ 13-3-30(81396)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि तृतीयोऽध्यायः॥ 3 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-3-1 वृत्तमाचारः। शीलं विनयः॥ 7-3-4 ब्राह्मण्यं चेदिच्छेत्तर्हि केन प्राप्तुयात्तदिति अनुषज्य व्याख्येयम्॥ 7-3-7 पर्याये आवृत्तौ जन्मनाम्॥ 7-3-9 तुल्यवर्णः अन्यवर्णजोऽपि जातकर्मादिसंस्कारयोगात्तुल्यवर्णत्वं गतः। नाम प्रसिद्धम्॥ 7-3-10 यज्ञकारः यज्ञं कारयन् आर्त्विज्यं कुर्वन्नित्यर्थः। प्रायात् अग्निचयनार्थमिष्टका आनेतुमित्यर्थाद्गम्यते॥ 7-3-11 बालं अशिक्षितम्॥ 7-3-14 बाले त्वयि। भावः जातिस्वभावः। भावं वुद्धिं नियच्छति मार्गान्तरादपकर्षति। भावं भावोऽधिगच्छतीति थ.ध.पाठः॥ 7-3-15 करुणं रासभीवच इति ध.पाठः॥ 7-3-19 संसिद्धौ संसिद्ध्यर्थम्॥ 7-3-20 अन्त्ययोनिश्चण्डालजातिः। अयोनिस्तदन्यः कुत्सितयोनिः। तयोर्हीनकर्मतया कुशलित्वं नास्तीत्यर्थः॥ 7-3-23 सुचरितात्तपसश्च हेतोः स्थानं ब्राह्मण्यं सुखेन प्रेप्सुर्विबुधांस्तापयामासेति सम्बन्धः॥ 7-3-24 हरिवाहन इन्द्रः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|